संक्षिप्त सद्गुरू चरित्रश्रीगणेशवन्दनस्तोत्रम्४:४९॥ ॐ तत्सत् ॥ ॥ श्रीसद्गुरवे नमः ॥ ॥ श्रीगणेशवन्दनस्तोत्रम् ॥लंबोदरं महाकायं शूर्पकर्णं गजाननम् । सर्वार्थसिद्धिदं देवं वंदेऽहं गणनायकम् ॥ १ ॥गिरिजात्मजं निजानंदं शिवपुत्रं निरंजनम् । भक्तिप्रियं सदाशांतं वंदेऽहं गणनायकम् ॥ २ ॥ब्रह्मविष्णुमहेशैश्च वंदितं एकामदम् । विनायकं गुरुं नित्यं वंदेऽहं गणनायकम् ॥ ३ ॥गणंजयं गणाधीशं गणेशं च परात्परम् । पूर्णं निर्गुणं माद्यं च वंदेऽहं गणनायकम् ॥ ४ ॥प्रणवं बिंदुसंयुक्तं चतुर्वेदप्रवर्तकम् । गानप्रियं निरालंबं वंदेऽहं गणनायकम् ॥ ५ ॥कर्ता धर्ता च संहर्ता नियंता सिद्धिनायकः । सर्वांतः साक्षिकं तं च वंदेऽहं गणनायकम् ॥ ६ ॥विकटं धूम्रराजेंद्रं कृष्णपिंगाक्षसौख्यदम् । हेरंबं वक्रतुंडं च वंदेऽहं गणनायकम् ॥ ७ ॥विश्वाधारं विभुं वैद्यं भवरोगनिवारकम् । कृपार्णवं दिनानाथं वंदेऽहं गणनायकम् ॥ ८ ॥सुरेशं च सुरश्रेष्ठं सुरेंद्रं सुररक्षकम् । दिव्यदीप्तिप्रभायुक्तं वंदेऽहं गणनायकम् ॥ ९ ॥पालकं खेचराणां च असुराणां विनाशकम् । सिद्धिबुद्धिप्रदं देवं वंदेऽहं गणनायकम् ॥ १० ॥मतिप्रदं स्वयंज्ञानं केवलं ज्ञानरूपिणम् । ज्ञानेशं च प्रभुं साक्षात् वंदेऽहं गणनायकम् ॥ ११ ॥चैतन्यात्मा स्वयं नित्यं पापहृन् धरणीधरम् । त्रिलोकव्यापकं सत्यं वंदेऽहं गणनायकम् ॥ १२ ॥नित्यानंदं परं देवं भक्ताधीनं जगत्पतिम् । करुणार्णवं जगन्नाथं वंदेऽहं गणनायकम् ॥ १३ ॥आनंददायकं नित्यमानंदं स्वात्मसौख्यदम् । वेदांतस्य रहस्यर्थं वंदेऽहं गणनायकम् ॥ १४ ॥तुरीयं तत्पदं मूलं चतुर्वाणीप्रवर्तकम् । स्वसंवेद्यं स्वतःसिद्धं वंदेऽहं गणनायकम् ॥ १५ ॥मूलाधारं रक्तवर्णं रक्तांगं भक्तपूजितम् । रक्तपुष्पप्रियं देवं वंदेऽहं गणनायकम् ॥ १६ ॥नादबिंदुकलातीतं स्वयंज्योतिः सनातनम् । वाहनं मूषकं यस्य वंदेऽहं गणनायकम् ॥ १७ ॥मुदितं मोदकं चैव चतुर्मुक्तिप्रदायकम् । आद्यंतरहितं ध्वान्तं वंदेऽहं गणनायकम् ॥ १८ ॥वागीशं वाक्पदं वादं द्वंद्वातीतं विमत्सरम् । स्नेहार्द्रं सद्गुरुं देवं वंदेऽहं गणनायकम् ॥ १९ ॥लोकपालं लोकनाथं साक्षादाग्निस्वरूपिणम् । दुःखघ्नं पुण्यदातारं वंदेऽहं गणनायकम् ॥ २० ॥एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् । रक्तवस्त्रपरीधानं वंदेऽहं गणनायकम् ॥ २१ ॥सर्वं खल्विदंब्रह्माख्यं रुचिरं मोदकप्रियम् । विकाररहितं नित्यं वंदेऽहं गणनायकम् ॥ २२ ॥वरदं विघ्नराजेंद्रं महाविघ्नप्रमोचकम् । शुभदं समतायुक्तं वंदेऽहं गणनायकम् ॥ २३ ॥जगन्नाट्यप्रियं नित्यं वेदाधिष्ठानमव्ययम् । उपनिषत्सारदं देवं वंदेऽहं गणनायकम् ॥ २४ ॥चिन्मयं सच्चिदानंदं अद्वितीयं गुणात्मकम् । कालातीतं स्वयंतत्त्वं वंदे सिद्धिविनायकम् ॥ २५ ॥पंचविंशतिभिः श्लोकैर्ग्रथिता पुष्पमालिका । समर्पिता मया कंठे गणेशस्य कृपानिधेः ॥ २६ ॥सद्गुरुप्रेरितं स्तोत्रं यः पठेद्भक्तिमान् नरः । भुक्तिं मुक्तिं तथा शांतिं लभते नात्र संशयः ॥ २७ ॥एकवारं पठेन्नित्यं व्याधिमुक्तो भवेन्नरः । द्विवारं यः पठेन्नित्यं तस्य शत्रून् विनश्यति ॥ २८ ॥त्रिवारं यः पठेन्नित्यं धनधान्यसमन्वितः । भवेल्लक्ष्मीयुतः सत्यं शुद्धभक्तिसमन्वितः ॥ २९ ॥लक्षपाठाद्गणेशस्य दर्शनं सत्वरं भवेत् । एवं वरो मया प्राप्तो गणेशस्य प्रसादतः ॥ ३० ॥सद्गुरुप्रेरितं स्तोत्रमर्पितं तत्पदांबुजे । भक्तिभावेन दासेन नग्नेण शिरसा सदा ॥ ३१ ॥॥ इति श्रीसद्गुरुप्रेरितं गणेशवरप्रदं श्रीगणेशवन्दनस्तोत्रं सम्पूर्णम् ॥येथून ऐका